वेंकटेशस्तोत्रम्
अथ वेंकटेशस्तोत्रम्
वेंकटेशो वासुदेवः प्रद्युम्नोsमितविक्रमः ।
संकर्षणोsनिरुद्धश्च शेषाद्रिपतिरेव च	।।1।।
जनार्दनः पद्मनाभो वेंकटाचलवासनः ।
सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः	।।2।।
गोविंदो गोपतिः कृष्णः केशवो गरुडध्वजः ।
वराहो वामनश्चैव नारायण अधोक्षजः 	।।3।। 
श्रीधरः पुंडरीकाक्षः सर्वदेवस्तुतो हरिः ।
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः	।।4।।
रमानाथो महीभर्ता भूधरः पुरुषोत्तमः ।
चोलपुत्रप्रियः शांतो ब्रह्मादीनां वरप्रदः 	।।5।।
श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः ।
श्रीरामो रामभद्रश्च भवबंधैकमोचकः 	।।6।।
भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः ।
अच्युतानंतगोविंदो विष्णुर्वेंकटनायकः 	।।7।।
सर्वदैवैकशरणं सर्वदेवैकदैवतम् ।
समस्तदेवकवचं सर्वदेवशिखामणिः 	।।8।।
इतीदं कीर्तितं यस्य विष्णोरमिततेजसः ।
त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते 	।।9।।
राजद्वारे पठेद् घोरे संग्रामे रिपुसंकटे ।
भूतसर्पपिशाचादिभयं नास्ति कदाचन 	।।10।।
अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् ।
रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बंधनात् 	।।11।।
यद्यदिष्टतमं लोके तत् तत् प्राप्नोत्यसंशयः ।
ऐश्वर्यं राजसन्मानं भुक्तिमुक्तिफलप्रदम् 	।।12।।
विष्णोर्लोकैकसोपानं सर्वदुखैःकनाशनम् ।
सर्वैश्वर्यप्रदं नृणां सर्वमंगलकारकम् 	।।13।।
मायावी परमानंदं त्यक्त्वा वैकुंठमुत्तमम् ।
स्वामिपुष्करणीतीरे रमया सह मोदते 	।।14।।
कल्याणाद्भुतगात्राय कामितार्थप्रदायिने ।
श्रीमद्वेंकटनाथाय श्रीनिवासाय ते नमः 	।।15।।
वेंकटाद्रिसमं स्थानं ब्रह्मांडे नास्ति किंचन ।
वेंकटेशसमो देवो न भूतो न भविष्यति ।।
एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् 	।।16।।
।। इति श्रीब्रह्मांडपुराणे ब्रह्मनारदसंवादे श्रीवेंकटेशस्तोत्रम् ।।